शार्ङ्गधरपद्धतिः /528
This page has not been fully proofread.
  
  नायिकां प्रति नायकावस्थावर्णनम्
  
3493
   
किं पृष्टेन द्रुततरमितो गम्यतां सा प्रिया ते
दृष्टा मार्गे दिवसमखिलं सास्रमेका मयैवम् ।
दृष्टे दृष्टे त्वमिति रभसोद्रीवमालोकयन्ती
पृष्टे पृष्ठे न भवति भवानित्युदभुर्वलन्ती ॥ २१ ॥
   
कस्यापि ।
   
3494
   
चित्रोत्कीर्णादपि विषधराङ्गीतिभाजो निशायां
किं तमस्त्वदभिसरणे साहसं नाथ तस्याः ।
   
ध्वान्ते यान्त्या यदतिनिभृतं बालयात्मप्रकाश-
4
   
५१३
   
त्रासात्पाणिः पथि फणिफणारत्नरोधी व्यधायि ॥ २२ ॥
   
हारहरस्य ।
   
3495
   
संकेतकुञ्जभुवि सा शयनोपधानं
   
व्यालं कृतं सुभग कुण्डलितं न वेद ।
तत्कण्ठलग्नघन चन्दनगन्धलुब्ध-
स्तत्रैव निश्चलमुवास चिराय सोपि ॥ २३ ॥
3496
   
कस्यापि !
   
मा गच्छ प्रमदाप्रिय प्रियशतैरभ्यर्थितस्त्वं मया
बाला प्राङ्गणमागतेन भवता प्रामोत्यवस्थां पराम् ।
कि चास्याः कुचभारनिःसहतरैरङ्गैरनङ्गाकुलै-
खुटचत्कचुकजालकैरनुदिनं निःसूत्रमस्महम् ॥ २४ ॥
   
मोरिकायाः ।
   
अथ नायिकां प्रति नायकावस्थावर्णनम् ॥१०८॥
   
3497
   
पदशब्दलीनहृदयो रूपालंकारभावनानिपुणः ।
कविरिव वञ्चितनिद्रस्तरुणि तत्रार्थे परं स युवा ॥ १ ॥