This page has not been fully proofread.

नायकस्याये दूत्युक्तिः
 
५११
 
3483
 
25
 
अङ्गानि मे दहतु कान्तवियोगवह्निः
संरक्ष्यतां प्रियतमो हृदि वर्तते यः ।
इत्याशया शशिमुखी गलदश्रुवारि-
धाराभिरुष्णमभिषिञ्चति हत्प्रदेशम् ॥ ११ ॥
 
कस्यापि ।
 
3484
अविरलपरिवाहैरश्रुणः सारणीनां
स्मरदहन शिखोष्णश्वासपूरैश्च तस्याः ।
 
सुभग बत कृशाङ्गयाः स्पर्धयान्योन्यमेभिः
 
क्रियत इव पुरो भूः पङ्किला पांखुंला च ॥ १२ ॥
 
कस्यापि ।
 
3485
 
सखीभिक्षां याचे बत नतशिरास्त्वामिदमहं
चेदस्ति प्रीतिः कुरु तदपि कारुण्यकणिकाम् ।
अवस्था सा तस्याः सुकृतमथ यस्यां किमपरं
प्रमोहो विश्रामस्त्वमथ मरणं वा प्रतिकृतिः ॥ १३ ॥
गौडाभिनन्दस्य ।
 
3486
 
अच्छिन्नं नयनाम्बु बन्धुषु कृतं तापः सखीष्वाहितो
दैन्यं न्यस्तमशेषतः परिजने चिन्ता गुरुभ्योर्पिता ।
अद्य श्वः किल निर्वृतिं व्रजति सा श्वासैः परं खिद्यते
www.y
विश्रब्धो भव विप्रयोगजनितं दुःखं विभक्तं तया ॥ १४ ॥
 
अमरुकस्य ।
 
3487
 
त्वां चिन्तापरिकल्पितं सुभग सा संभाव्य रोमाञ्चिता

शून्यालिङ्गनसंचलहुजयुगेनात्मानमालिङ्गति ।
किं चान्यहिरहव्यथाप्रशमनीं संप्राप्य मूर्छा चिरा-
त्प्रत्युज्जीवति कर्णमूल पठितैस्त्वन्नाममन्त्राक्षरैः ॥ १५ ॥
 
कस्यापि ।