This page has not been fully proofread.

५१०
 
शार्ङ्गधरपद्धतिः
 
3478
 
गेहादङ्गणमङ्ग
गादपि वहिवयाच्च पृथ्वीतलं
तामार्ति यदि सैव वेत्ति मुमुखी किंचान्यदाचक्ष्महे ।
पर्यङ्कोपि तवाङ्गसङ्गसुभगः स्वेदाम्भसां निर्झरै-
धारामण्डपतामनीयत तथा तस्मिन्रुदत्या मुहुः ॥ ६ ॥
 
कस्यापि ।
 
3479
 
तस्या महाविरहवह्निशिखाकलाप-
तप्ते स्थितोसि हृदये सततं प्रियायाः ।
प्रालेयसीकरसमे हृदि सा कृपालो
 
बाला क्षणं वसति नैव खलु त्वदीये ॥ ७॥
 
कस्यापि ।
 
3480
 
दृष्टे चन्द्रमसि प्रलूनतमसि व्योमाङ्गणस्थेयसि
स्फूर्जन्निर्मलतेजसि त्वाय गते दूरं निजप्रेयसि ।
श्वास: कैरवकोरकीयांत मुखं तस्याः सरोजी यति
क्षीरोदीयति मन्मथो मृगदृशो दृक्चन्द्रकान्तीयति ॥ ८ ॥
 
भल्लदस्य ।
 
3481
 
आवासो विपिनायते प्रियसखीमालापि जालायते
तापोपि श्वसितेन दावदहनज्वालाकलापायते ।
सापि त्वद्विरहेण हन्त हरिणीरूपायते हा कथं
कंदर्पेपि यमायते विरचयञ्शार्दूलविक्रीडितम् ॥ ९ ॥
 
3482
 
क्षणमपि विरहः पुरा न सेहे
 
नयननिमीलनखिन्नया यया ते ।
 
श्वसिति कथमसौ रसालशाखां
 
चिरविरहेण विलोक्य पुष्पितामाम् ॥ १० ॥
 
जयदेवस्यैतौ ।