This page has not been fully proofread.

नायकस्या दूत्युक्तिः
 
अथ नायकस्याग्रे दूत्युक्तिः ॥ १०७ ॥
 
3473
 
सा सुन्दर तव विरहे सुतनुरियन्मात्रलोचना सपदि ।
एतावतीमवस्थां याता दिवसैरियन्मात्रैः ॥ १ ॥
 
रुद्रस्य ।
 
3474
 
अङ्गेनङ्गज्वरहुतवहश्चक्षुषि ध्यानमुद्रा
 
कण्ठे जीवः करकिसलये दीर्घशायी कपोलः ।
अंसे वेणी कुचपरिसरे चन्दनं वाचि मौनं
तस्याः सर्वे स्थितमपि न तु त्वां विना कापि चेतः ॥ २ ॥
 
क्षेमेन्द्रस्य ।
 
3475
 
गृहीतं ताम्बूलं परिजनवचोभिः कथमपि
 
स्मरत्यन्तः शून्या सुभग विरतायामपि निशि ।
तथैवास्ते हस्तः कलितफणिवल्ली किसलय
 
स्तथैवास्यं तस्याः क्रमुकफलफालीपरिचितम् ॥ ३ ॥
 
बिल्हणस्य ।
 
3476
 
कुसुमशयनेप्यङ्गं ताम्यत्यनङ्गविवर्तन
 
वदनपवनैः श्यामच्छायो बभूव सखीजनः ।
 
हृदयनिहितः शीतो लेपछमीति रवं करो-
त्यहह कठिनावस्था तस्यास्त्वयैवमुपेक्ष्यते ॥ ४ ॥
 
कस्यापि ।
 
५०९
 
3477
 
गलत्येका मूर्छा भवति पुनरन्या यदनयोः
किमप्यासीन्मध्ये सुभग सकलायामपि निशि ।
लिखन्त्यास्तत्तस्याः कुसुमशरलेखं तव कृते
 
समाप्ति स्वस्तीति प्रथमपदभागोपि न गतः ॥ ५ ॥
 
कस्यापि ।