This page has not been fully proofread.

५०८
 
शार्ङ्गधरपद्धतिः
 
आन्दोलन श्रमजलस्फुटसान्द्रबिन्दु-
मुक्ताफलप्रकरविच्छुरितं प्रियायाः ॥ २३ ॥
 
अमरुकस्यैते ।
 
3468
 
निद्रार्धमीलितदृशो मदमन्थराणि
नाप्यर्थवन्ति न च नाम निरर्थकानि ।
 
अद्यापि मे मृगदृशो मधुराणि तस्या-
स्तान्यक्षराणि हृदये किमपि ध्वनन्ति ॥ २४ ॥
 
3469
 
अद्यापि तां कनकचम्पकदा मगौरीं
 
फुलारविन्दनयनां तनुरोमराजीम् ।
सुप्नोत्थितां मदनविहललालसाङ्गीं
 
विद्यां प्रमादगलितामिव चिन्तयामि ॥ २५ ॥
 
38470
 
अद्यापि सा मनसि संपरिवर्तते मे
 
रात्रौ मयि क्षुतवति क्षितिपालपुत्र्या ।
जीवेति मङ्गलवचः परिहत्य कोपा-
कर्णे कृतं कमलपत्रमनालपन्त्या ॥ २६ ॥
 
बिल्हणस्यैते ।
 
3471
 
आसन्नमार्गमतिलङ्कच नतेन मूर्ध्ना
पश्चात्प्रसङ्गवलितेन मुखेन यान्त्या ।
आरोपिताः कतिपये मयि पङ्कजाक्ष्या
साकूतहास मनतिप्रकटा कटाक्षाः ॥ २७ ॥
 
कस्यापि ।
 
3472
 
मुखं तस्याः स्मितस्मेरं किंचिदञ्चलसंवृतम् ।
 
मदालोकनलोलाक्षं स्मृत्वा मन्ये सुधां मुधा ॥ २८ ॥
 
कस्यापि ।