This page has not been fully proofread.

वियोगिप्रलापाः
 
3462
 
यदि स्मरामि तां तन्वीं जीविताशा कुतो मम ।
 
अथ विस्मृत्य जीवामि जीवितव्यसनेन किम ॥ १८ ॥
 
कस्यापि ।
 
3463
 
पादाङ्गुष्टेन भूमिं किसलयरुचिना सापदेशं लिखन्ती
भूयो भूयः क्षिपन्ती माय सितशबले लोचने लोलतारे ।
वक्त्रं हीनम्रमीषत्स्फुरदधरपुटं वाक्यगर्भे दधाना
यन्मां नोवाच किंचित्स्थितमपि पुरतो मानसं तहुनोति॥१९॥
 
कस्यापि ।
 
3464
 
व्रीडायोगान्नतवदनया संनिधाने गुरुणां
बद्धोत्कम्पं स्तनकलशयोर्मन्युमन्तर्निगृह्य ।
तिष्ठेत्युक्तं किमिव न तया यत्समुत्सृज्य बाष्पं
मय्यासक्तचकितहरिणीहारिनेत्रत्रिभागः ॥ २० ॥
 
नेत्रत्रिभागन्ब्रह्मयशस्विनः ।
 
५०७
 
3465
 
याताः किं न मिलन्ति सुंदरि पुनश्चिन्ता त्वया मत्कृते
नो कार्या नितरां कृशासि कथयत्येवं सबाप्पे मयि ।
लज्जानन्थरतारकेण निपतत्पीताश्रुणा चक्षुषा
दृष्ट्वा मां हसितेन भाविमरणोत्साहस्तया सूचितः ॥२१॥
 
अमरुकस्य ।
 
3466
 
कान्तामुखं सुरतकेलिविमर्दखेद-
संजातघर्मकण विच्छुरितं रतान्ते ।
॥ आपाण्डुरं विलसदर्धनिमीलिताक्षं
संस्मृत्य हे हृदय किं शतधा न यासि ॥२२॥
 
3467
 
अद्यापि तत्प्रचलकुण्डलधृष्टगण्डं
वक्रं स्मरामि विपरीतरताभियोगे ।