This page has not been fully proofread.

33
 
वियोगिप्रलापाः
3451
 
नपुंसकमिति ज्ञात्वा प्रियायां प्रहितं मनः ।
तत्तु तत्रैव रमते हताः पाणिनिना वयम् ॥ ७ ॥
 
कस्यापि ।
 
3452
 
नूनमयं मे पापः कान्ताविरहे रसायनीभूतः ।
वर्षसहस्राभ्यधिकान्नयामि कथमन्यथा दिवसान् ॥ ८ ॥
 
कस्यापि ।
 
3453
 
भ्रमय जलदानम्भोगर्भान्प्रमोदय चातका-
न्कलय शिखिनः के कोत्कण्ठान्कठोरय केतकान् ।
विरहिण जने मूर्छा लब्ध्वा विनोदयति व्यथा-
मकरुण पुनः संज्ञाव्याधि विधाय किमीहसे ॥ ९ ॥
भवभूतेः ।
 
५०५
 
3454
 
जाने कोपपराङ्मुखी प्रियतमा स्वमेद्य दृष्टा मया
मा मां संस्पृश पाणिनेति रुदती गन्तुं प्रवृत्ता ततः ।
नो यावत्परिरभ्य चाटुक शतैराश्वासयामि क्षणं
भ्रातस्तावदहं शठेन विधिना निद्रादरिद्रः कृतः ॥ १० ॥
 
निद्रादरिद्रस्य ।
 
3455
 
तप्ते महाविरहवह्निशिखावलीभि-
रापाण्डुरस्तनतटे हृदये प्रियायाः ।
मन्मार्गवीक्षणानेवेशितदीनदृष्टे-
नूनं छमच्छमिति बाष्पकणाः पतन्ति ॥ ११ ॥
 
छमच्छमित्कारत्नस्य ।
 
3456
 
न मे दुःखं प्रिया दूरे न मे दुःखं हतेति सा ।
एतदेवानुशोचामि वयस्तस्या निवर्तते ॥ १२ ॥
 
वाल्मीकिमुनेः ।