This page has not been fully proofread.

सज्जनप्रशंसा
 
227
 
कदर्थितस्यापि हि धैर्यवृत्ते-
र्न शक्यते धैर्यगुणः प्रमार्धुम् ।
अधोमुखस्यापि कृतस्य वह्ने-
नधः शिखा यान्ति कदाचिदेव ॥ ४ ॥
 
भर्तृहरेः ।
 
228
 
ये दीनेषु दयालवः स्पृशति यानल्पोपि न श्रीमदो
व्यग्रा ये च परोपकारकरणे हृष्यन्ति ये याचिताः ।
स्वस्थाः सन्ति च यौवनोन्मदमहाव्याधिप्रकोपेपि ये
 
तैः स्तम्भैरिव सुस्थितैः कलिभरक्कान्ता धरा धार्यते ॥५॥
 
:
 
229
 
अर्थः सुखं कीर्तिरपीह मा भू-
दनर्थ एवास्तु तथापि धीराः ।
निजप्रतिज्ञामनुरुध्यमाना
महोद्यमाः कर्म समारभन्ते ॥ ६ ॥
कयोरप्येती ।
 
३७
 
230
 
भङ्गणवेदी वसुधा कुल्या जलधिः स्थली च पातालम् ।
वल्मीकश्च सुमेरु: कृतप्रतिज्ञस्य धीरस्य ॥ ७ ॥
 
बाणभहस्य ।
 
अथ सज्जनप्रशंसा ॥ १४ ॥
 
231
 
उपकर्तु प्रियं वक्तुं कर्तुं स्नेहमकृत्रिमम् ।
सज्जनानां स्वभावोयं केनेन्दुः शिशिरीकृतः ॥ १ ॥
 
232
 
निर्गुणेष्वपि सत्त्वेषु दयां कुर्वन्ति साधवः ।
 
नहि संहरते ज्योत्स्नां चन्द्रश्चाण्डालवेइमसु ॥ २ ॥