This page has not been fully proofread.

वियोग्यवस्थाप्रलापवर्णनम्
 
निजमैक्षि मन्दमनिशं निशितैः
कृशितं शरीरमशरीरशरैः ॥ ३ ॥
 
माघकवेः ।
 
3441
 
प्राणेश विज्ञप्तिरियं मदीया
 
तत्रैव नेया दिवसाः कियन्तः ।
 
संपत्ययोग्यस्थितिरेष देश:
 
करा हिमांशोरपि तापयन्ति ॥ ४ ॥
 
वल्लभस्य ।
 
3442
 
जीवामीति वियोगिनी यदखिले लोके प्रवृत्ता: कथा
अद्य श्वोथ मरिष्यतीति मरणे कालात्ययः किं कृतः ।
आगन्तव्यमिति संप्रति सखे संभावना निष्फला
भ्रातः संप्रति याहि नास्ति लिखितं तद्ब्रूहि यत्ते क्षमम् ॥ ५ ॥
 
लोणितकस्य ।
 
3443
 
अनलस्तम्भनावेद्यां सुभग भवानियतमेव जानाति ।
मन्मथशराभितप्ते हृदि मे कथमन्यथा वससि ॥ ६ ॥
कस्यापि ।
 
3444
 
उलङ्ख्यापि सखीवचः समुचितामुल्लङ्घय लज्जामलं
भिवा भीतिभर निरस्य च निजं सौभाग्यगर्व मनाक् ।
आज्ञां केवलमेव मन्मथगुरोरादाय नूनं मया
त्वं निःशेषविलासिवर्गगणनाचूडामणिः संभृतः ॥ ७ ॥
 
कस्यापि ।
 
अथ वियोग्यवस्थाप्रलापवर्णनम् ॥ १०६ ॥
 
५०३
 
3445
 
देशैरन्तरिता शतैञ्च सरितामुर्वीभृतां कानने-
र्यत्नेनापि न याति लोचनपथं कान्तेति जानन्नपि ।