This page has not been fully proofread.

वियोगिनीप्रलापाः
 
3430
 
मुग्धस्य ते वद विधुंद किं वदामि
किं मुक्तवानसि मुखे पतितं शशाङ्कम् ।
अस्याईबिम्बगलितेन सुधारसेन
 
संधानमेति तव किं न जरत्कबन्धः ॥ ७॥
बिल्हणस्य ।
 
3431
 
रिपुरिव सखीसंवासोयं शिखीव हिमानिलो
विषमिव सुधारश्मिर्यस्मिन्दुनोति मनोगते ।
हृदयमदये तस्मिन्नेवं पुनर्वलते बला-
कुवलयदृशां वामः कामो निकामनिरङ्कः ॥ ८ ॥
 
जयदेवस्य ।
 
3432
 
५०१
 
विरमत विरमत सख्यो नलिनीदलतालवृन्तपवनेन ।
हृदयगतोयं वह्निर्झटिति कदाचिज्ज्वलत्येव ॥ ९ ।
 
कस्यापि ।
 
3433
 
विभूमि साख संवीक्ष्य भ्रमरीभूतकीटकम् ।
तयानादागते पुंस्त्वे तेन सार्धं रतिः कथम् ॥ १० ॥
 
कस्यापि ।
 
3434
 
याः पश्यन्ति प्रियं स्वमे धन्यास्ताः सखि योषितः ।
अस्माकं तु गते कान्ते गता निद्रापि वैरिणी ॥ ११ ॥
 
कस्यापि ।
 
3435
 
यास्यामीति समुद्यतस्य वचनं विस्रग्धमाकर्णितं
गच्छन्दूरमुपेक्षितो मुहुरसौ व्यावृत्य तिष्ठन्नपि ।
तच्छून्ये पुनरागतास्मि भवने प्राणास्त एते दृढाः
संख्यस्तिष्ठत जीवितव्यसनिनी दंभादहं रोदिमि ॥ १२ ॥
 
कस्यापि ।