शार्ङ्गधरपद्धतिः /515
This page has not been fully proofread.
शार्ङ्गधरपद्धतिः
यातुं निश्चितचेतसि प्रियतमे सर्वे समं प्रस्थिता
गन्तव्ये सति जीवितप्रियसुहृत्सार्थः किमुत्सृज्यते ॥ १ ॥
अमरुकस्य ।
3425
स्वयमप्राप्त दुःखो यः स दुनोति न विस्मयः ।
त्वं स्मरप्राप्तदाहोपि दहसीति किमुच्यते ॥ २ ॥
कस्यापि ।
3426
वरमसौ दिवसो न पुनर्निशा
ननु निशैव बरं न पुनर्दिनम् ।
उभयमेतदुपैत्वथवा क्षयं
प्रियतमेन न यत्र समागमः ॥ ३ ॥
कस्यापि ।
3427
अरतिरियमुपैति मां न निद्रा
गणयति तस्य गुणान्मनो न दोषान् ।
विगलति रजनी न सङ्गमाशा
व्रजति तनुस्तनुतां न चानुरागः ॥ ४ ॥
बिल्हणस्य ।
3428
पञ्चत्वं तनुरेतु भूतनिवहः स्वं स्वं विशत्वीप्सितं
याचे त्वां द्रुहिण प्रणम्य शिरसा भूयोपि भूयान्मम ।
तापीषु पयस्तदीयमुकुरे ज्योतिस्तदीयालय-
व्योम्नि व्योम तदीयवर्त्मनि धरा तत्तालवृन्तेनिलः ॥ ५ ॥
आकाशपोलेः ।
3429
हारो नारोपितः कण्ठे मया विश्लेषभीरुणा ।
इदानीमन्तरे जाताः पर्वताः सरितो द्रुमाः ॥ ६ ॥
वाल्मीकिमुनेः