This page has not been fully proofread.

वियोगिनीप्रलापाः
 
कालेस्मिन्कुसुमाकरे द्विगुणितप्रेमोत्सवे रागिणां
गच्छन्नमत एव मूढहृदये मुक्तस्त्वया वल्लभः ॥ ६ ॥
 
दोर्लतिकाभीमस्य ।
 
3420
 
विश्रान्तो दिवसस्तटीमय मटत्यस्ताचलस्यांशुमा-
संप्रत्यङ्करितान्धकारपटलैर्लम्बालका चौरभूत् ।
एह्यन्तर्विश वेदमनः शशिमुखि द्वारस्थलीतोरण-
स्तम्भालम्बितबाहुबलि रुदती किं त्वं पथः पश्यसि ॥७॥
रुतीपण्डितस्य ।
 
3421
 
गोपायन्ती विरहजनितं दुःखमये गुरूणां
 
किं त्वं मुग्धे नयनविसृतं बाष्पपूरं रुणत्ति ।
नक्तं नक्तं नयनतलिलैरेष आर्द्रकृितस्ते
 
शव्योपान्तः कथयति दशामातपे शोष्यमाणः ॥ ८ ॥
कस्यापि ।
 
3422
 
मुखं पाण्डुलायं नयनयुगलं बाप्पतरलं
: क्षामक्षामा गतमविशदं धैर्यविगमः ।
द्रियं मुक्त्वा मूढे कथयसि न मे सारवचना-
न्यवस्था येनेयं तव तखि मुहूर्तेन पतिता ॥ ९ ॥
 
कस्यापि ।
 
3423
 
आहारे विरतिः समयविषयग्रामे निवृत्तिः परा
नासाग्रे नथनं यदेतदपरं यच्चैकनिष्ठं मनः ।
मौनं चेदमिदं च शून्यमखिलं यद्विश्वमाभाति ते
तङ्क्रया:
 
४९९
 
साख योगिनी किमसि भोः किं वा बियोगिन्यसि ॥१०॥
 
राजशेखरस्य ।
 
अथ वियोगिनीप्रलापाः ॥ १०४ ॥
 
3424
 
प्रस्थानं वलयैः कृतं प्रियसखैर स्रैरजस्रं गतं
धृत्या न क्षणमासितं व्यवसितं चित्तेन गन्तुं पुरः ।