This page has not been fully proofread.

शार्ङ्गधरपद्धांतः
 
3405
 
सा तोरणान्तिकमुपेत्य दिशोवलोक्य
निःश्वस्य दीर्घमुपधाय करं कपोले ।
मत्वा च तं पुरत एव ससंभ्रमत्वा-
ज्ज्ञात्वा समोहलिखितेव न किं किमासीत् ॥ ८ ॥
पृथ्वीधरस्य ।
 
3406
 
भ्रातः पान्थ पाथ त्वया न पथिकः कश्चित्समासादितो
बाले नैकशतानि कीदृश इति प्रख्यायतां वल्लभः ।
दृष्ट्वा प्रमदाजनस्य भवतः स्फारे मुदा लोचने
स ज्ञेयो दयितो ममेति पथिकायावेद्य मोहं गता ॥ ९॥
 
यं
 
कस्यापि ।
 
3407
 
रथ्यार जोरुणितधूसरिताङ्गयष्टे
 
कश्चित्पितुः स्मरसि पुत्रक निर्घुणस्य ।
उक्त्वैवमङ्कगतमात्मजमायताक्ष्या
 
पान्थस्त्रिया प्ररुदितं करुणं दिनान्ते ॥ १० ॥
कस्यापि ।
 
3408
 
तन्वङ्गया गुरुसंनिधौ नयनजं यहारि संस्तम्भितं
तेनान्तर्गलितेन मन्मथशिखी सिक्तो वियोगोद्भवः ।
मन्ये तस्य निरस्यमान किरणस्यैषा मुखेनोद्गता
श्वासायाससमागतालिसरणित्र्याजेन धूमावली ॥ ११ ॥
 
कस्यापि ।
 
3409
 
मुग्धा स्वमसमागते प्रियतमे तत्पाणिसंस्पर्शनं
रोमाञ्चाञ्चितया शरीरलतया संभाव्य कोपात्किल ।
मा मा वल्लभ संस्पृशेति सहसा शून्यं वदन्ती मुहुः
सख्या नो हसिता सचिन्तमसकृत्संशोचिता प्रत्युत ॥ १२ ॥
 
रुद्रस्य ।