This page has not been fully proofread.

विरहिण्यवस्थावर्णनम्
 
3399
 
विश्रम्य विश्रम्य वनद्रुमाणां
छायासु तन्वी विचचार काचित् ।
तनूत्तरीयेण करोद्धृतेन
 
निवारयन्ती शशिनो मयूखान् ॥ २ ॥
 
कस्यापि ।
 
3400
 
अस्तमितविषयसङ्गा मुकुलितनयनोत्पला मुहुः श्वसिता ।
ध्यायति किमप्यलक्ष्यं बाला योगाभियुक्तेव ॥ ३ ॥
 
गोवर्धनस्य ।
 
3401
 
परिम्लानं पीनस्तनजघनसङ्गादुभयत-
स्तनोर्मध्यस्यान्तः परिमलनमप्राप्य हरितम् ।
इदं व्यस्तन्यासं लथभुजलताक्षेपवलनैः
 
४९५
 
कृशाङ्गयाः संतापं वदति बिसिनीपत्रशयनम् ॥ ४ ॥
 
श्रीहर्षस्य ।
 
3402
 
दह्यमानेपि हृदये मृगाक्ष्या मन्मथानिना ।
स्नेहस्तथैव यत्तस्थौ तदाश्चर्यमिवाभवत् ॥ ५॥
 
शकवृद्धेः ।
 
3403
 
लिखति न गणयति रेखा निर्भरबाष्पाम्बुधौतगण्डतला ।
अवधिदिवसावसानं मा भूदिति शङ्किता बाला ॥ ६ ॥
 
मोरिकायाः ।
 
3404
 
प्रयातेस्तं भानौ श्रितशकुनिनीडेषु तरुषु
स्फुरत्संध्यारागे शशिनि शनकैरुल्लसति च ।
प्रियप्रत्याख्यानाद्वगुणविरहोत्कण्ठितदृशा
 
तदारब्धं तन्व्या भरणमपि यत्रोत्सवपदम् ॥ ७ ॥
 
भल्लदस्य ।