This page has been fully proofread once and needs a second look.

शार्ङ्गधरपद्धतिः
 

220
 

महतां प्रार्थनेनैव विपत्तिरपि शोभते ।
 

दन्तभङ्गो हि नागानां श्लाघ्यो गिरिविदारणे ॥ १२ ॥
 

221
 

तरुमूलादिषु निहितं जलमाविर्भवति पल्लवामेग्रेषु ।
 

निभृतं यदुपक्रियते तदपि महान्तो वहन्त्युचैः च्चै:॥ १३ ॥
 
222
 

222
अचिन्त्याः पन्थान: किमपि महतामन्धकरिपो-

र्यदक्ष्णोभूत्तेजस्तदकृत कयाथामप्यमदनाम् ।

मुनेर्नेत्रादत्रेर्यदजनि पुनर्ज्योतिरहह
 

प्रतेने तेनेदं मदनमयमेव त्रिभुवनम् ॥ १४ ॥
 

केषामप्येते ।
 

223
 

महात्मानोनुगृह्णन्ति भजमानान्त् रिपूनपि ।
 

सपत्नी: प्रापयन्त्यब्धिधिं सिन्धवो नगनिम्नगाः ॥ १५ ॥
 

माघकवेः ।
 

---------
अथ वीरप्रशंसा ॥१३॥
 

224
 

सह परिजनेन विलसति धीरो गहनानेनि तरति पुनरेकः ।

विषमेकेनं निपीतं त्रिपुरजिता सह सुरैरमृतम् ॥ १ ॥
 

कस्यापि ।
 

225
 

निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु

लक्ष्मीः समाविशतु गच्छतु वा यथेच्छम् ।

अद्यैव वा मरणमस्तु युगान्तरे वा
 

न्याय्यात्पथः प्रविचलन्ति पदं न धीराः ॥ २ ॥

भर्तृहरेः ।
 

226
 

श्लाघ्या महतामुन्नतिरद्भुतमध्यवसितं च धीराणाम् ।

कनकगिरिरनभिलङ्घयो रविरनिशमनुज्झितारम्भः ॥ ३ ॥
 

कस्यापि ।