This page has not been fully proofread.

शार्ङ्गधरपद्धतिः
 
220
 
महतां प्रार्थनेनैव विपत्तिरपि शोभते ।
 
दन्तभङ्गो हि नागानां श्लाघ्यो गिरिविदारणे ॥ १२ ॥
 
221
 
तरुमूलादिषु निहितं जलमाविर्भवति पहवामेषु ।
 
निभृतं यदुपक्रियते तदपि महान्तो वहन्त्युचैः ॥ १३ ॥
 
222
 
अचिन्त्याः पन्थान: किमपि महतामन्धकरिपो-
र्यदक्ष्णोभूत्तेजस्तदकृत कयामप्यमदनाम् ।
मुनेर्नेत्रादत्रेर्यदजनि पुनर्ज्योतिरहह
 
प्रतेने तेनेदं मदनमयमेव त्रिभुवनम् ॥ १४ ॥
 
केषामप्येते ।
 
223
 
महात्मानोनुगृहन्ति भजमानान्त्रिपूनपि ।
 
सपत्नी: प्रापयन्त्यब्धि सिन्धवो नगनिम्नगाः ॥ १५ ॥
 
माघकवेः ।
 
अथ वीरप्रशंसा ॥१३॥
 
224
 
सह परिजनेन विलसति धीरो गहनाने तरति पुनरेकः ।
विषमेकेनं निपीतं त्रिपुरजिता सह सुरैरमृतम् ॥ १ ॥
 
कस्यापि ।
 
225
 
निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु
लक्ष्मीः समाविशतु गच्छतु वा यथेच्छम् ।
अद्यैव वा मरणमस्तु युगान्तरे वा
 
न्याय्यात्पथः प्रविचलन्ति पदं न धीराः ॥ २ ॥
भर्तृहरेः ।
 
226
 
श्लाघ्या महतामुन्नतिरद्भुतमध्यवसितं च धीराणाम् ।
कनकगिरिरनभिलङ्घयो रविरनिशमनुज्झितारम्भः ॥ ३ ॥
 
कस्यापि ।