This page has not been fully proofread.

४९४
 
शार्ङ्गधरपद्धतिः
 
3395
 
लोलैर्लोचनवारिभिः सशपथैः पादप्रणामैः परै-
रन्यास्ता विनिवारयन्ति कृपणाः प्राणेश्वरं प्रस्थितम् ।
पुण्याहं व्रज मङ्गलं सुदिवस: प्रातः प्रयातस्य ते
यत्स्नेहोचितमीहितं प्रिय मया तन्निर्गतः श्रोष्यसि ॥ ३ ॥
 
अमरुकस्य ।
 
अथ नायकं प्रति सखीवाक्यम् ।
 
3396
 
या बिम्बौष्ठरुचिः क्व विद्रुममणिः स्वमेपि तां लब्धवा-
न्हास श्रीसदृशैस्तपोभिरपि किं मुक्ताफलैर्भूयते ।
तत्कान्तिः शतशोपि वह्निनः कुतः सेत्स्यति
त्यक्त्वा रत्नमयों प्रयासि दयितां कस्मै धनायाध्वग ॥ ४ ॥
 
शिवस्वामिनः ।
 
3397
 
उद्यद्वर्हिषि दर्दुरारवपुषि प्रक्षीणपान्थायुषि
यो तद्विप्रुषि चन्द्ररुषि सखे हंसद्विपि प्रावृषि ।
मा मुञ्चोच्चकुचाग्रसंततपतद्वाप्पाकुलां बालिकां
काले कालकरालनीलजलदव्यालुप्तभास्वविषि ॥ ५ ॥
 
बाणभहस्य ।
 
अथ विरहिण्यवस्थावर्णनम् ॥ १०२ ॥
 
3398
 
शशभृक्षवपलवे शशाङ्के
मकरन्दस्रुति वारुणीसरोजे ।
अपि चास्यमरुद्गणान्प्रसूते
 
तिलकुसुमं स्फुटचम्पकौवदानि ॥ १ ॥
 
कस्यापि ।