This page has not been fully proofread.

नायिकोक्तिः
 
इति दिनशतप्राप्यं देशं प्रियस्य यियासतो
हरति गमनं बालालापैः सवाष्पगलज्जलैः ॥ ९ ॥
गलज्जलवसुदेवस्य ।
 
४९३
 
3390
 
दूरं सुन्दर निर्गतासि नगरादेष द्रुमः क्षीरवा-
नस्मादेव निवर्त्यतामिति शनैरुक्त्वाध्वगेन प्रियाम् ।
गाढालिङ्ग नवक्रितस्तन तटाभोगस्फुटत्कनुकं
वीक्ष्योरःस्थलमञ्जुपूरितदृशः प्रस्थानभङ्गः कृतः ॥ १० ॥
 
कस्यापि ।
 
अथ नायिकां प्रति नायकवचनादिकथनम् ।
 
3391
 
स्मर्तव्योहं त्वया कान्ते न स्मरिष्याम्यहं तव ।
स्मरणं चेतसो धर्मस्तचेतो भवता हृतम् ॥ ११ ॥
 
कस्यापि ।
 
3392
 
स्मर्तव्या वयमिन्दुसुन्दर मुखि प्रस्तावतोपि त्वया
सत्यं नाथ यदि प्रदास्यति विधिजतिस्मरत्वं मम ।
एकस्मिन्नपि जन्मनि प्रियतमे जातिस्मरत्वं कथं
प्राणाः पान्थ समं त्वयैव चलिताः काद्यापि जन्मैकता ॥१२॥
 
कस्यापि ।
 
अथ नायकं प्रति नायिकोक्तिः ॥ १०१ ॥
 
3393
 
गच्छ गच्छसि चेत्कान्त पन्थानः सन्तु ते शिवाः ।
ममापि जन्म तत्रैव भूयाद्यत्र गतो भवान् ॥ १॥
 
3394
 
सहिष्ये विरहं नाथ देवदृश्याञ्जनं मम ।
यदत्तनेत्रां कंदर्पः महतु मां न शक्ष्यति ॥ २ ॥
एतौ इण्डिनः ।