This page has not been fully proofread.

४९२
 
शार्ङ्गधरपद्धतिः
 
3384
 
कान्ते कथंचिह्नतिप्रयाणे
क्षणं विनम्रा विरहार्दिताड़ी ।
 
ततः समालोक्य कड़ा गतोसी-
"
 
च्यालिङ्गय मुग्धा मुदमाससाद ॥ ४ ॥
 
कस्यापि ।
 
3385
 
लज्जां विहाय रुदितं विधृतः पटान्ते
 
मागास्त्वमित्युदित्तमङ्गुलयो मुखेस्ताः ।
स्थित्वा पुरः पतितमेव निवर्तनाय
 
प्राणेश्वरे व्रजति किं न कृतं कृशाङ्गया ॥ ५ ॥
कस्यामि ।
 
3386
 
दृष्टः कातरनेत्रया चिरतरं बद्धाञ्जलिं याचितः
पश्चादंशुकपल्लवेन विवृतो निर्व्याजमालिङ्गितः ।
इत्याक्षिप्य समस्तमर्थमघृणो गन्तुं प्रवृत्तः शठः
पूर्व प्राणपरिग्रहो दयितया मुक्तस्ततो वलभः ॥ ६ ॥
 
अमरुकस्य 8
 
3387
 
यामीति प्रियपृष्टायाः प्रियायाः कण्ठवर्तिनोः ।
 
बचोजीवितयोरासीत्पुरो निःसरणे रणः ॥ ७ ॥
 
कस्यापि ।
 
3388
 
लमा नांशुकपल्लवे भुजलता न द्वारदेशेर्पिता
नो वा पादयुगे तथा निपतितं तिष्टेति नोक्तं वचः ।
काले केवलमम्बुदालिमलिने गन्तुं प्रवृत्तः शठ-
स्तन्वङ्गया नयनाम्बुकल्पितनदीपूरेण रुद्धः प्रियः ॥ ८ ॥
 
अमरुकस्य ।
 
3389
 
महरविरती मध्ये वाह्नस्ततोप्यपरेण वा
 
किमुत सकले यातेप्यह्नि प्रिय त्वमिहैष्यसि ।