This page has not been fully proofread.

32
 
समग्र स्त्रीस्वरूपवर्णनम्
 
अयमयं प्रविभाग इति स्फुटं
 
जगति निश्चिनुते चतुरोपि कः ॥ ८२ ॥
भीमसिंह पण्डितस्य ।
 
अथ समग्रस्त्रीस्वरूपवर्णनम् ॥ ९९ ॥
 
3368
 
सा दृष्टा यैर्न वा दृष्टा मुषिताः सममेव ते ।
हृदयं हृतमेकेषामन्येषां चक्षुषोः फलम् ॥ १ ॥
प्रभाकरदेवस्य ।
 
3369
 
अवलोकनमपि सुखयति कुवलयदलचारुचपलनयनायाः ।
किं पुनरमृतसमानं सरभसमालिङ्गनं तस्याः ॥ २ ॥
 
कस्यापि ।
 
3370
 
स्तन युगमतीव तुङ्गं निम्नो मध्यः समुन्नतं जघनम् ।
इति विषमे हरिणाक्ष्या वपुषि नवे क इह न स्खलति ॥ ३ ॥
 
कस्यापि ।
 
3371
 
मुखेन चन्द्रकान्तेन महानीलैः शिरोरुहैः ।
 
पादाभ्यां पद्मरागाभ्यां रेजे रत्नमयीव सा ॥ ४ ॥
 
कस्थापि ।
 
3372
 
संन्यस्तभूषापि नवैव नित्यं
 
विनापि हार हसतीव कान्त्या ।
 
मदं विनापि स्खलतीव भावै-
र्वाचं विना व्याहरतीव दृष्टया ॥ ५ ॥
 
व्यासस्य ।
 
3373
 
तइक्रं यदि मुद्रिता शशिकथा तच्चेत्स्मितं का सुधा
तच्चक्षुर्यदि हारितं कुवलयैस्ताश्चेगिरो धिङ्धु ।