This page has not been fully proofread.

४८८
 
शार्ङ्गधरपद्धतिः
 
अथ नखश्रेणिः ।
 
3362
 
तस्याः पादनखश्रेणी शोभते किल सुभ्रुवः ।
रत्नावलीव लावण्यरत्नाकरसमुद्गता ॥ ७७ ॥
 
बिल्हणस्य ।
 
3363
 
त्वद्रकं नेत्रपद्मप्रकटितमसकृत्स्पर्धितं
 
यन्मयैत-
ज्जातं तस्मात्कृशत्वं ग्रहणमपि ततो जाद्यमन्तःकलङ्कः ।
तत्सर्वं क्षम्यतां मे पुनरपि न करोम्येवमुक्त्वा तु तस्या
गाढं लग्न: शशाङ्कश्चरणनखमणिच्छद्मना पादयुग्मम् ॥७८॥
 
कस्यापि ।
 
अथ गमनम् ।
 
3364
 
सलीलमियमायान्ती कामिनी गजगामिनी ।
 
उन्नताङ्किनखज्योतिः पुष्पैर्भुवमिवार्चति ॥ ७९ ॥
 
3365
 
मारयन्त्या जर्न सर्व निरागसमवज्ञया ।
मातङ्गानां गतिर्यादृक्तादृगासीदसंशयम् ॥ ८० ॥
 
कस्याप्येतौ ।
 
अथ कान्तिः ।
 
3366
 
सुन्दरी सा भवत्येष विवेकः केन जायते ।
प्रभामात्रं हि तरलं दृश्यते तत्र नाश्रयः ॥ ८१ ॥
 
वण्डिनः ।
 
3367
 
अवयवेषु परस्परबिम्बिते-
स्वतुलकान्तिषु राजति यत्तनोः ।