This page has not been fully proofread.

तरुणीवर्णनम्
 
अथोरू ।
 
22
3356
 
पश्यन्हतो मन्मथबाणपातैः
 
शक्तो विधातुं न निमील्य चक्षुः ।
ऊरू विधात्रा हि कथं कृतौ ता-
वित्यास तस्यां सुमतोतर्कः ॥ ७९ ॥
 
कुमारवासस्य ।
 
3357
 
मन्ये तदूरू संभाव्य हस्तसर्वस्वहारिणी ।
वहन्त्यस्पर्शताहेतोर्मतङ्गत्वं मतङ्गजाः ॥ ७२ ॥
 
बिल्हणस्य ।
 
अथ ज ।
 
3358
 
जते तदीये संतापं यज्जनस्यानुरागिणः ।
जनयांचक्रतुस्तीत्रं तत्र हेतुर्विलोमता ॥ ७३ ॥
 
शकवृद्धेः ।
 
3359
 
हेममञ्जीरमालाभ्यां भाति जङ्घालताद्वयम् ।
लावण्याय कृतास्थानं कुङ्कुमेनेव सुभ्रुवः ॥ ७४ ॥
 
बिल्हणस्य ।
 
अथ चरणयुगलम् ।
 
3360
 
अमूल्यस्य मम स्वर्णतुला कोटिइयं कियत् ।
इति कोपादिवाताम्रं पादयुग्मं मृगीदृशः ॥ ७५ ।
 
3361
 
जाग्रतः कमलाल्लक्ष्मी यज्जमाह तदद्भुतम् ।
पादद्वयस्य मत्तेभगतिस्तेये तु का स्तुतिः ॥ ७६ ॥
बिल्हणस्यैतौ ।
 
४८७