This page has not been fully proofread.

४८६
 
शार्ङ्गधरपद्धतिः
 
अथ नाभिः ।
 
3350
 
मन्ये समाप्तलावण्ये सारसर्गे मृगीदृशः ।
अपूरयित्वेव गतो नाभिरन्ध्रं चतुर्मुखः ॥ ६५ ॥
 
3351
 
कुचकुम्भौ समालम्ब्य तरीतुं कान्तिनिम्म्रगाम् ।
प्रमादतस्ततो भ्रष्टा दृष्टिर्नाभौ निमज्जति ॥ ६६ ॥
 
कोरप्येती ।
 
अथ नितम्बः ।
 
3352
 
तन्त्रितम्बस्य निन्दन्ति वृद्धिं परिजनाङ्गनाः ।
काञ्चीनवनवग्रन्थिग्रथनेन कदार्थताः ॥ ६७ ॥
 
बिल्हणस्य ।
 
3353
 
स कथं न स्पृहणीयो विषयरतैस्तन्नितम्बविन्यासः ।
शान्तात्मनापि विहितं विश्वसृजा गौरवं यत्र ॥ ६८ ॥
 
कस्यापि ।
 
अथ जघनम् ।
 
3354
 
वपुरनुपमं नाभेरूर्ध्वं विधाय मृगीदृशो
ललितललितैरङ्गन्यासैः पुरा रभसादिव ।
तदनु सहसा खिन्नेनेव प्रजापतिना भृशं
पृथुलपृथुला स्थूलस्थूला कृता जघनस्थली ॥६९॥
 
जघनस्थलीघटकस्य ।
 
3355
 
तस्याः पद्मपलाशाक्ष्यास्तन्व्यास्तज्जघनं घनम् ।
 
दृष्टं सखीभिर्याभिस्ताः पुंभावं मनसा ययुः ॥ ७० ॥
 
वाल्मीकेः ।