This page has not been fully proofread.

तरुणीवर्णनम्
 
3345
 
काञ्चीगुणैर्विरचिता जघनेषु लक्ष्मी-
र्लब्धा स्थितिः स्तनतटेषु च रत्नहारैः ।
नो भूषिता वयमितीव नितम्विनीनां
काइये निरर्गलमधार्यत मध्यभागैः ॥ ६० ॥
 
रत्नाकरस्य ।
 
अथ बलित्रयम् ।
 
3346
 
मध्यत्रिबलीत्रिपये पीवरकुचचत्वरे च चपलदृशाम् ।
छलयाते मदनपिशाचः पुरुषं हि मनागपि स्खलितम् ॥६१॥
 
3347
 
एकमेव बलिं बध्वा जगाम हरिरुन्नतिम् ।
तन्व्यास्त्रिबलिबन्धेपि सैव मध्यस्य नम्रता ॥ ६२ ॥
 
कयोरप्येती ।
 
अथ रोमावली ।
 
3348
 
४८५
 
गभीरनाभीहूदसंनिधाने
रराज तन्वी नवरोमराजिः ।
मुखेन्दुभीत स्तनचक्रवाक-
इन्होज्झिता शैवलमञ्जरीव ॥ ६३ ॥
 
लक्ष्मीधरस्य ।
 
3349
 
अमुष्मिँल्लावण्यामृतसरसि नूनं मृगवृशः
स्मरः शर्वप्रुष्टः पृथुजघनभागे निपतितः ।
यदङ्गाङ्गाराणां प्रशमपिशुना नाभिकुहरे
 
शिखा धूमस्येयं परिणमति रोमावलिमिषात् ॥ ६४ ॥
 
कस्यापि ।