2023-04-13 02:52:09 by Ravindranatha Menon
This page has been fully proofread once and needs a second look.
213
किं वा परेण बहुना परिजल्पितेन
संसर्ग एव महतां महते फलाय ।
अम्भोनिधेस्तटरुहास्तरवोपि येन
वेलाजलोच्छलिवरत्नकृतालवालाः ॥ ५ ॥
214
आपत्स्वेव हि महतां शक्तिरभिव्यज्यते न संपत्सु ।
अगुरोस्तथा न गन्धः प्रागस्ति यथाग्निपतितस्य ॥ ६ ॥
कयोरप्येतौ ।
215
बच्चा
वज्रादपि कठोराणि मृदूनि कुसुमादपि ।
लोकोत्तराणां चेतांसि को हि विज्ञातुमर्हति ॥ ७ ॥
भवभूतेः ।
216
जितरोषरया महाधियः
सपदि क्रोधजितो लघुर्जनः ।
विजितेन जितस्य दुर्मते-
र्मतिमद्भिः सह का विरोधिता ॥ ८ ॥
:
माघस्य ।
217
गवादीनां पयोन्येद्युः सद्यो वा जायते दधि ।
क्षीरोदधेस्तु नाद्यापि महतां विकृतिः कुतः ॥ ९ ॥
देवेश्वरस्य ।
१५
218
संपदो महतामेव महतामेव चापदः ।
वर्धते क्षीयते चन्द्रो न तु तारागणः क्वचित् ॥ १० ॥
219
अपकुर्वन्नपि प्रायः प्रा
और्