This page has not been fully proofread.

महतां प्रशंसा
 
213
 
किं वा परेण बहुना परिजल्पितेन
संसर्ग एव महतां महते फलाय ।
अम्भोनिधेस्तटरुहास्तरवोपि येन
वेलाजलोच्छलिवरत्नकृतालवालाः ॥ ५ ॥
 
214
 
आपत्स्वेव हि महतां शक्तिरभिव्यज्यते न संपत्सु ।
अगुरोस्तथा न गन्धः प्रागस्ति यथानिपतितस्य ॥ ६ ॥
कयोरप्येतौ ।
 
215
 
बच्चादपि कठोराणि मृदूनि कुसुमादपि ।
लोकोत्तराणां चेतांसि को हि विज्ञातुमर्हति ॥ ७ ॥
 
भवभूतेः ।
 
216
 
जितरोषरया महाधियः
 
सपदि क्रोधजितो लघुर्जनः ।
विजितेन जितस्य दुर्मते-
मतिमद्भिः सह का विरोधिता ॥ ८ ॥
:
 
माघस्य ।
 
217
 
गवादीनां पयोन्येयुः सद्यो वा जायते दधि ।
क्षीरोदधेस्तु नाद्यापि महतां विकृतिः कुतः ॥ ९ ॥
देवेश्वरस्य ।
 
१५
 
218
 
संपदो महतामेव महतामेव चापदः ।
 
वर्धते क्षीयते चन्द्रो न तु तारागणः क्वचित् ॥ १० ॥
 
219
 
अपकुर्वन्नपि प्रायः प्रामोति महतः फलम् ।
और्व दहन्तमेवाग्निं संतर्पयति सागरः ॥ ११ ॥