This page has not been fully proofread.

º
 
शार्ङ्गधरपद्धतिः
 
3339
 
मुद्दङ्गि काठेनौ तन्वि पीनौ सुमुखि दुर्मुखौ ।
अत एव बहिर्यातौ हृदयात्ते पयोधरौ ॥ ५४ ॥
 
3340
 
तन्वङ्गयाः स्तनयुग्मेन मुखं न प्रकटीकृतम् ।
हाराय गुणिने स्थानं न दत्तमिति लज्जया ॥ ५५ ॥
 
3341
 
काठिन्यमङ्गैरखिलैर्निरस्तं
कुचौ युवत्याः शरणं जगाम ।
अध: पतिष्याव इतीव भीत्या
 
न शक्नुवस्तावपि हातुमेतत् ॥ ५६ ॥
 
3342
 
यन्त्र माति तदङ्गेषु लावण्यमतिसंभृतम् ।
पिण्डीकृतमुरोदेशे तत्पयोधरतां गतम् ॥ ५७ ॥
 
3343
 
एकावलीकलितमौक्तिककैतवेन
 
तन्व्याः समुन्नतपयोधरयुग्म सेवाम् ।
चक्रुर्मनांसि यमिनामतिनिर्मलानि
कंदर्पमुक्तशरपातकृतान्तराणि ॥ ५८ ॥
 
केषामध्येते ।
 
अथ मध्यः ।
 
3344
 
वयः प्रकर्षादुपचीयमान -
स्तनद्रयस्योद्दहनश्रमेण ।
अत्यन्तकार्य वनजायताक्ष्या
 
मध्यो जगामेति ममैष तर्कः ॥ ५९ ॥
 
कुमारशसस्य ।