शार्ङ्गधरपद्धतिः /498
This page has not been fully proofread.
तरुणीवर्णनम्
अथाङ्गुल्यः ।
3334
अङ्गुलीषु कुरङ्गाक्ष्याः शोभते मुद्रिकावलिः ।
प्रोतेव बाणैः पुष्पेषोः सूक्ष्मलक्ष्यपरंपरा ॥ ४९ ॥
बिल्हणस्य ।
3335
सुदीर्घा रागशालिन्यो बहुपर्वमनोहराः ।
तस्या विरेजुरङ्गुल्यः कामिनां संकथा इव ॥ ५० ॥
शकवृद्धेः ।
अथ स्तनौ ।
3336
नयननीरज किं भवता कृतं
मुखशशी यदयं रिपुराश्रितः ।
इति वचो वितरीतुमिवोन्मुखं
वरतनोः स्तनवक्रयुगं बभौ ॥ ५१ ॥
कस्यापि ।
3337
४८३
पुष्पेषोरभिषेकहेमकलशौ हारप्रभावाहिनी-
चक्राह्नौ मदनोन्मदद्विपपतेः कुम्भौ रतेः कन्दुकौ ।
कन्दौ बाहुमृणालिकायुगलयोर्लीलालतासल्फले
नव्यौ रत्नसमुद्रको वहति सा लावण्यपूर्णी स्तनौ ॥ ५२ ॥
3338
शुकीचञ्चूखातच्छवि फलयुगं यौवनतरो-
रयः शङ्कक्षुण्णं मदनकरिणः कुम्भयुगलम् ।
समुद्रं भोगायामृतकलशयुग्मं सुकृतिनः
कुचइन्छं तन्व्या नवनखपदाङ्कं विजयते ॥ ५३ ॥
कयोरप्येतौ ।