This page has not been fully proofread.

४८२
 
शार्ङ्गधरपद्धतिः
 
अन्योन्य शोभाजननाद्वभूव
साधारणो भूषणभूण्यभावः ॥ ४४ ॥
 
अथ बाहू ।
 
3330
 
कालिदासस्य ।
 
दयिताबाहुपाशस्य कुतोयमपरो विधिः ।
जीवयत्यर्पितः कण्ठे मारयत्यपवर्जितः ॥ ४५ ॥
 
भासस्य ।
 
3331
 
शब्दवद्भिरलंकारैरुपेतमतिकोमलम् ।
 
सुवृत्तं काव्यवद्रेजे तद्बाहुलतिकाद्वयम् ॥ ४६ ॥
 
शकवृद्धेः ।
 
अथ करौ ।
 
3332
 
मुग्धे प्रसारयसि किं कुसुमानि हतु-
मेतान्यशोकविटपस्य कुतूहलेन ।
अस्यैव तन्वि नवपल्लवडम्बरेषु
 
त्वं हारयिष्यसि ननु स्वयमेव पाणी ॥ ४७ ॥
 
कस्यापि ।
 
3333
 
न्यस्तानि दन्तवलयानि करे कयाचि-
तानी दुखण्डघटितानि ममैष तर्कः ।
अस्या निसर्गमृदुपाणिसरोजमेषा-
मामोचने झागति यन्मुकुलीबभूव ॥ ४८ ॥
 
कस्यापि ।