This page has not been fully proofread.

४८०
 
शार्ङ्गधरपद्धतिः
 
अथ मुखम् ।
 
3319
 
यदमरशतैः सिन्धोरन्तः कथंचिदुपार्जितं
सकलमपि तद्धात्रा कान्तामुखे विनिवेशितम् ।
सुरसुमनसः श्वासामोदे शशीव कपोलयो-
रमृतमधरे तिर्यग्भूते विषं च विलोचने ॥ ३४ ॥
 
3320
 
तस्या मुखस्यातिमनोहरस्य
 
कर्तुं न शक्तः सदृशं प्रियायाः ।
अद्यापि शीतद्युतिरात्मबिम्बं
निर्माय निर्माय पुनर्भिनत्ति ॥ ३५ ॥
 
3321
 
अनेन रम्भोरु तवाननेन
 
पीयूषभानोस्तुलया धृतस्य ।
ऊनस्य नूनं परिपूरणाय
 
तारा: स्फुरन्ति प्रतिमानखण्डाः ॥ ३६ ॥
कयोरप्येतौ ।
 
3322
 
कोश: स्फीततरः स्थितानि परितः पत्राणि दुर्गे जलं
मित्रैर्मण्डलमुज्ज्वलं चिरमधो नीतास्तथा कण्टकाः ।
इत्याकृष्ट शिलीमुखेन रचनां कृत्वा तदत्यद्भुतं
यत्पद्मेन जिगीषुणापि न जितं मुग्धे त्वदीयं मुखम् ॥३७ ॥
 
विज्जकायाः ।
 
3323
 
धिक्तस्य मन्दमनसः कुकवेः कवित्वं
यः स्त्रीमुखं तुहिन बिम्बसमं करोति ।
भ्रूभङ्ग विभ्रम कटाक्षनिरीक्षितानि
कोपप्रसादहसितानि कुतः शशाङ्के ॥ ३८ ॥
 
श्रीधनवदेवानाम् ।