शार्ङ्गधरपद्धतिः /494
This page has not been fully proofread.
तरुणीवर्णनम्
3314
सर्वस्यैव हि रत्नस्य व्रणेर्घः परिहीयते ।
दयिताधररत्नं तु त्रणितं यात्यनर्घताम् ॥ २९ ॥
कयोरप्येतौ ।
अथ दन्ताः ।
3315
द्विधा विधाय शीतांशुं कपोलौ कृतवान्विधिः ।
तन्व्यास्तद्रसनि:स्यन्दाबन्दवो रदनावली ॥ ३० ॥
कपोलकवेः ।
नान
3316
यावद्यावस्कुवलयदृशा मृज्यते दन्तपालि-
स्तावत्तावद्विगुणमधरच्छायया शोणशोचिः ।
काचित्तस्याः परिमलकलाहूतमात्रालिकान्त्या
वक्रश्वासे प्रसरति मुहुः श्यामिकाप्याविरासीत् ॥ ३१ ॥
कस्यापि ।
अथ स्मितम्
3317
Ko
४७९
स्मयमानमायताक्ष्याः किंचिदभिव्यक्तदशनशोभि मुखम् ।
असमग्रलक्ष्यकेसर मुच्छ्रसदिव पङ्कजं दृष्टम् ॥ ३२ ॥
3318
पुष्पं प्रवालोपहितं यदि स्या-
न्मुक्ताफलं वा स्फुटविद्रुमस्थम् ।
ततोनुकुर्याद्विशदस्य तस्य
ताम्रौष्ठ पर्यस्तरुचः स्मितस्य ॥ ३३ ॥
एतौ कालिदासस्य ।