This page has not been fully proofread.

४७८
 
शार्ङ्गधरपद्धतिः
 
अथ कपोलौ ।
 
3309
 
आबध्नत्परिवेषमण्डलमलं वक्रेन्दुबिम्बाद्वहि:
 
कुर्वच्चम्पकजृम्भमाणकलिकाकर्णावतंसक्रियाम् ।
तन्वङ्कयाः परिनृत्यतीव हसतीवोत्सर्पतीवोल्बणं
लावण्यं ललतीव काञ्चनशिलाकान्ते कपोलस्थले ॥ २४ ॥
 
त्रिविक्रमभहस्य ।
 
अथाधरः ।
 
3310
 
तवैष विद्रुमच्छायो मरुमार्ग इवाधरः ।
 
करोति कस्य नो मुग्धे पिपासाकुलितं मनः ॥ २५ ॥
 
कस्यापि ।
 
3311
 
अल्पेनापि सुरक्तेन साधनेन प्रयोजनम् ।
ओष्ठद्वयमहायेन कान्तास्येन जगज्जितम् ॥
 
3312
 
रसवदमृतं कः संदेहो मधून्यपि नान्यथा
 
मधुरमधिकं द्राक्षायाश्च प्रसन्नतरं फलम् ।
 
२६ ॥
 
कस्यापि ।
 
सकृदपि पुनर्मध्यस्थ: सन्त्रसान्तरविज्जनो
वदतु यदिहान्यत्स्वादु स्यात्प्रियादशनच्छदात् ॥ २७ ॥
 
कस्यापि ।
 
3313
 
अयि मृगाक्षि तवाधरपल वे
 
दयितदन्तपदं न भवत्यदः ।
 
भुवनमोहनमन्त्र पदाङ्कितं
 
किमुत यन्त्रमिदं स्मरयन्त्रिणः ॥ २८ ॥