This page has not been fully proofread.


 
तरुणीवर्णनम्
 
अथ नासा ।
 
3304
 
पुराणबाणत्यागाय नूतनाखकुतूहलात् ।
तन्नासा भाति कामेन तूणीवाधोमुखीकृता ॥ १९ ॥
 
बिल्हणस्य ।
 
.
 
3305
 
सुधामयोपि क्षयरोगशान्त्यै
 
• नासाग्र मुक्ताफलकच्छलेन ।
अनङ्गसंजीवनदृष्टिशक्ति-
मुखामृतं ते पिबतीत्र चन्द्रः ॥ २० ॥
 
वैद्यनाथस्य ।
 
-
 
अथ कर्णपाशी ।
 
3306
 
सौन्दर्यपात्रे वक्रेन्दी कुरङ्गासङ्गभीतया ।
सूचितौ श्रोत्रपाशाभ्यां पाशाविव मृगीदृशः ॥ २१ ॥
 
3307
 
तालीदलं काञ्चनकर्णपाशे
 
प्रसारयन्ती सुतनुः कराभ्याम् ।
 
रराज कर्णान्तनिषण्णदृष्टिः
 
शाणे दधानेव कटाक्षबाणान् ॥ २२ ॥
 
बिल्हणस्यैतौ ।
 
3308
 
४७७
 
ताटङ्कमस्यास्तरलेक्षणाया
 
मुक्ताफलैचारु रुवं विधत्ते ।
 
मुखश्रिया चन्द्रमिवाभिभूय
 
बन्दीकृतं तारकचक्रवालम् ॥ २३ ॥
 
कस्यापि ।