This page has not been fully proofread.

शार्ङ्गधरपद्धतिः
 
अथ नेत्रे ।
 
3298
 
नूनमाज्ञाकरस्तस्याः सुभ्रुवो मकरध्वजः ।
यतस्तन्नेत्रसंचारसूचितेषु प्रवर्तते ॥ १३ ॥
 
कस्यापि ।
 
3299
 
यासां कटाक्षविशिखैः स्मरचौरेण ताडिताः ।
हृतचैतन्यसर्वस्वा मोयन्ते मुग्धकामुकाः ॥ १४ ॥
शार्ङ्गधरस्य ।
 
3300
 
सन्मार्गे तावदास्ते प्रभवति पुरुषस्तावदेवेन्द्रियाणां
लज्जां तावद्विधत्ते विनयमपि समालम्बते तावदेव ।
भ्रूचापाकृष्टमुक्ताः श्रवणपथजुषो नीलपक्ष्माण एते
यावल्लीलावतीनां हृदि न धृतिमुषो दृष्टिबाणाः पतन्ति॥१५॥
 
बाणभहस्य ।
 
3301
 
नलिनं मलिनं विवृण्वती
 
पृषतीमस्पृशती तदीक्षणे ।
अपि खञ्जनमञ्जनाञ्चिते
विदधाते रुचिगर्वदुर्विधम् ॥ १६ ॥
 
श्रीहर्षस्य ।
 
3302
 
श्रमयति शरीरमधिकं भ्रमयति चेतः करोति संतापम् ।
मोहं मुहुश्च कुरुते विषमिव विषमं तु वीक्षणं तस्याः ॥ १७ ॥
 
3303
 
शिलासम्यग्धौतोज्ज्वल धवलधारापरिसरा-
निमानन्तः इयामानिव विषमबाणस्य विशिखान् ।
दृढप्रज्ञावर्माण्यपि हृदयमर्माणि रुजतः
 
कटाक्षानेतस्या मुनिरपि न सोढुं प्रभवति ॥ १८ ॥
 
कस्यापि ।