शार्ङ्गधरपद्धतिः /490
This page has not been fully proofread.
तरुणीवर्णनम्
आपाण्डुरक्षामकपोलभित्ता-
वनङ्ग बाणत्रणपट्टिकेव ॥ ७ ॥
3293
बाले लालमलेखेयं भाले भल्लीव राजते ।
भ्रूलताचापमाकृष्य न विद्मः कं हनिष्यति ॥ ८ ॥
गड़ता
भासस्य ।
3294
कस्तूरीतिलकं बाले भाले मा कुरु मा कुरु ।
अद्य साम्यं भजामीति जृम्भते शशलाञ्छनः ॥ ९ ॥
कस्यापि ।
3295
विराजतेस्यास्तिलको यमञ्चितो
विकुञ्चितभ्रूलतिकाद्वयान्तरे ।
विजित्य लोकद्वितयं दिवं प्रति
स्मरेण बाणो धनुषीव योजितः ॥ १० ॥
कस्यापि ।
अथ ध्रुवौ ।
3296
तस्याः शलाकाञ्जननिर्मितेव
कान्तिर्भुवोरायतलेखयोर्या ।
तां वीक्ष्य लीलाचतुरामनङ्गः
स्वचा पसौन्दर्यमदं मुमोच ॥ ११ ॥
कालिदासस्य ।
3297
भ्रूरेखायुगलं भाति तस्याश्चटुलचक्षुषः ।
पत्रद्वयीव हरिता नासावंशविनिर्गता ।॥ १२ ॥
बिल्हणस्य ।
४७५
आपाण्डुरक्षामकपोलभित्ता-
वनङ्ग बाणत्रणपट्टिकेव ॥ ७ ॥
3293
बाले लालमलेखेयं भाले भल्लीव राजते ।
भ्रूलताचापमाकृष्य न विद्मः कं हनिष्यति ॥ ८ ॥
गड़ता
भासस्य ।
3294
कस्तूरीतिलकं बाले भाले मा कुरु मा कुरु ।
अद्य साम्यं भजामीति जृम्भते शशलाञ्छनः ॥ ९ ॥
कस्यापि ।
3295
विराजतेस्यास्तिलको यमञ्चितो
विकुञ्चितभ्रूलतिकाद्वयान्तरे ।
विजित्य लोकद्वितयं दिवं प्रति
स्मरेण बाणो धनुषीव योजितः ॥ १० ॥
कस्यापि ।
अथ ध्रुवौ ।
3296
तस्याः शलाकाञ्जननिर्मितेव
कान्तिर्भुवोरायतलेखयोर्या ।
तां वीक्ष्य लीलाचतुरामनङ्गः
स्वचा पसौन्दर्यमदं मुमोच ॥ ११ ॥
कालिदासस्य ।
3297
भ्रूरेखायुगलं भाति तस्याश्चटुलचक्षुषः ।
पत्रद्वयीव हरिता नासावंशविनिर्गता ।॥ १२ ॥
बिल्हणस्य ।
४७५