This page has been fully proofread once and needs a second look.

३४
 
शार्ङ्गधरपद्धतिः
 

207
 
श्

ग्
रीवास्तम्भभृतः परोन्नतिकथामात्रे शिरःशूलिनः

सोद्वेगभ्रमणप्रलापविपुलक्षोभाभिभूतस्थितेः ।

अन्तर्द्वेषविषप्रवेशविषमक्रोधोष्णनिःश्वासिनः

कष्टा नूनमपण्डितस्य विकृतिर्भीमज्वरारम्भभूः ॥ ३ ॥

क्षेमेन्द्रस्यैतो ।
 
तौ ।
208
 

अज्ञः सुखमाराध्यः सुखतर माराध्यते विशेषज्ञः ।

ज्ञानलवदुर्विदग्धं ब्रह्मापि नरं न रञ्जयति ॥ ४ ॥
 

भर्तृहरेः
 

-----------
अथ महतां प्रशंसा ॥ १२ ॥
 

209
 

विपदि धैर्यमथाभ्युदये क्षमा
 

सदसि वाक्पटुता युधि विक्रमः ।

यशसि चाभिरतिर्व्यसनं श्रुतौ
 

प्रकृतिसिद्धमिदं हि महात्मनाम् ॥ १ ॥
 
210
 
इयमुन्नतसत्वशालिनां
 
महतां कापि कठोरचित्तता ।
 
उपकृत्य भवन्ति दूरतः
 
परतः प्रत्युपकारशङ्कया ॥ २ ॥
 
211
 

भर्तृहरेः ।
 

210
इयमुन्नतसत्त्वशालिनां
महतां कापि कठोरचित्तता ।
उपकृत्य भवन्ति दूरतः
परतः प्रत्युपकारशङ्कया ॥ २ ॥
211
नाल्पीयसि निबध्नन्ति पदमुन्नतचेतसः ।
 

येषां भुवनलाभेपि नि:सीमानो मनोरथाः ॥ ३ ॥
 

212
 

अहो किमपि चित्राणि चरित्राणि महात्मनाम् ।

लक्ष्मीं तृणाय मन्यन्ते तद्भरेण नमन्त्यपि ॥ ४ ॥
 

एते वेदेवेश्वरस्य ।