2023-02-25 06:19:06 by ambuda-bot
This page has not been fully proofread.
३४
शार्ङ्गधरपद्धतिः
207
श्रीवास्तम्भभृतः परोन्नतिकथामात्रे शिरःशूलिनः
सोद्वेगभ्रमणप्रलापविपुलक्षोभाभिभूतस्थितेः ।
अन्तर्वेषविषप्रवेशविषमक्रोधोष्णनिःश्वासिनः
कष्टा नूनमपण्डितस्य विकृतिर्भमज्वरारम्भभूः ॥ ३ ॥
क्षेमेन्द्रस्यैतो ।
208
अज्ञः सुखमाराध्यः सुखतर माराध्यते विशेषज्ञः ।
ज्ञानलवदुर्विदग्धं ब्रह्मापि नरं न रञ्जयति ॥ ४ ॥
भर्तृहरेः ७
अथ महतां प्रशंसा ॥ १२ ॥
209
विपदि धैर्यमथाभ्युदये क्षमा
सदसि वाक्पटुता युधि विक्रमः ।
यशसि चाभिरतिर्व्यसनं श्रुतौ
प्रकृतिसिद्धमिदं हि महात्मनाम् ॥ १ ॥
210
इयमुन्नतसत्वशालिनां
महतां कापि कठोरचित्तता ।
उपकृत्य भवन्ति दूरतः
परतः प्रत्युपकारशङ्कया ॥ २ ॥
211
भर्तृहरेः ।
नाल्पीयसि निबध्नन्ति पदमुन्नतचेतसः ।
येषां भुवनलाभेपि नि:सीमानो मनोरथाः ॥ ३ ॥
212
अहो किमपि चित्राणि चरित्राणि महात्मनाम् ।
लक्ष्मीं तृणाय मन्यन्ते तद्भरेण नमन्त्यपि ॥ ४ ॥
एते वेवेश्वरस्य ।