This page has not been fully proofread.

४७४
 
शार्ङ्गधरपद्धतिः
 
3287
 
भाति विन्यस्तकङ्कारः सुकेदया: केशसंचयः ।
 
शोणिता : शरैः पूर्ण तूणीरमिव मान्मथम् ॥ २॥
कस्यापि ।
 
3288
 
विकचकचकलापः किंचिदाकुञ्चितोयं
कुचकलशनिवेशी शोभते श्यामलाक्ष्याः ।
मधुरसपरितोषात्किंचिदुत्फुल्लकोषे
कमल इव निलीन: पेटकः षदानाम् ॥ ३ ॥
 
पुण्यस्य ।
 
3289
 
खानाद्रमुक्तेष्वनुधूपवासं
विन्यस्तसायंतनमलिकेषु ।
कामो वसन्तात्ययमन्दवीर्यः
केशेषु लेभे बलमङ्गनानाम् ॥ ४ ॥
 
3290
 
कालिदासस्य ।
 
चलत्कामिमनोमीनमादातुं चित्तजन्मनः ।
 
जालयष्टिरिवाभाति बालावेणी गुणोज्ज्वला ॥ ५ ॥
 
कस्यापि ।
 
3291
 
आभुमाङ्गुलिपलवौ कचभरे व्यापारयन्ती करौ
बन्धोत्कर्षनिबद्ध मानसतया शून्यां दधाना दृशम् ।
बाहूत्क्षेपसमुन्नते कुचतटे पर्यस्तचीनांशुका
ही संकोचितबाहुमूलसुभग बध्नाति जूटीं वधूः ॥ ६ ॥
 
सिङ्गापिदेः ।
 
अथ ललाटम् ।
 
3292
 
अस्या ललाटे रचिता सखीभि-
विभाव्यते चन्दनपत्रलेखा ।