शार्ङ्गधरपद्धतिः /488
This page has not been fully proofread.
31
तरुणीवर्णनम्
स्पृहामन्तः कान्ते वहति न समभ्येति निकटं
यथैवेयं बाला हरति हि तथा चित्तमधिकम् ॥ १२ ॥
3282
पद्भ्यां मुक्तास्तरलगतयः संश्रिता लोचनाभ्यां
श्रोणीबन्धस्त्यजति तनुतां सेवते मध्यदेशः ।
धत्ते वक्षः कुचसचिवतामद्वितीयत्वमास्यं
तद्गात्राणां गुणविनिमयः कल्पितो यौवनेन ॥ १३ ॥
3283
क्षोभं धत्ते यदपि बहल: स्निग्धलावण्यपूरः
प्रत्यङ्गं यत्तटमनुसरन्त्यूर्मयो विभ्रमाणाम् ।
उन्मनं यत्स्फुरति च मनाक्कुम्भयोर्द्वन्द्वमेत-
तन्मन्येस्या: स्मरगजयुवा गाहते हृत्तडागम् ॥ १४ ॥
४७३
3284
लावण्यामृतनिर्झरेण सुदृशः सिक्ताखिलाङ्गस्थली
जातस्तत्र नवीनयौवनकलालीलालतामण्डपः ।
तस्मिन्नेष विशेषशीतलतरुच्छायासु लुप्तोत्थितः
कंदर्पस्त्रिजगज्जयोद्यमपरोप्यद्यापि निद्रालसः ॥ १५ ॥
3285
यथा यथास्याः कुचयोः समुन्नति-
स्तथा तथा लोचनमेति वक्रताम् ।
अहो सहन्ते बत नो परोक्षति
निसर्गतोन्तर्मलिना ह्यसाधवः ॥ १६ ॥
केषामप्येते ।
अथ तरुणीपृथगवयववर्णनम् ॥ ९८ ॥
तत्र प्रथमं केशपाशः ।
3286
अस्या मनोहराकारकबरीभारनिर्जिताः ।
लज्जयेव वने वासं चक्रुश्चमरबार्हणः ॥ १॥
वररुचेः ।