This page has not been fully proofread.

४७२
 
शार्ङ्गधरपद्धतिः
 
अवर्ततान्यस्त्रपथैव साकं
 
कान्तः प्रकारो वचसां कृशाङ्गयाः ॥ ७॥
एतौ जयतुङ्गोदयात् ।
 
3277
 
मुखं विकसितस्मितं वाशतवक्रिम प्रेक्षितं
समुच्छलितविभ्रमा गतिरपास्तसंस्था मतिः ।
उरो मुकुलितस्तनं जघनमंसबन्धोद्धुरं
बतेन्दुवदनातनौ तरुणिमोमो मोदते ॥ ८ ॥
 
कस्यापि ।
 
3278
 
दोलायां जघनस्थलेन चलता लोलेक्षणा लज्जते
साशङ्कं तनुकण्टकक्षताभया क्रीडावने क्रीडति ।
धत्ते दिक्षु निरीक्षण स्मितमुखी पारावतानां रुतैः
सज्जं मौग्ध्यविसर्जनाय सुतनोः शृङ्गारमित्रं वयः ॥ ९ ॥
 
बिल्हणस्य ।
 
3279
 
अनाकूतैरेव प्रियसहचरीणां शिशुतया
वचोभिः पाञ्चालीमिथुनमधुना संगमयितुम् ।
उपादत्ते नो वा विरमति न वा केवल मियं
कपोलौ कल्याणी पुलकमुकुलैदन्तुरयति ॥ १० ॥
 
मुरारेः ।
 
3280
 
वक्षस्यावरणादरः स्तनमुखोद्भेदं विनाप्य ङ्गुली-
मुद्रासू चेतहास्यमास्यमधिकं नो पुत्रिकादौ रसः ।
तिर्यग्लोचनत्रीक्षितानि वचसां छेकोक्तिसंक्रान्तय-
स्तस्याः सीदति शैशवे समभवत्कोप्येष नव्यक्रमः ॥११॥
 
3281
 
प्रगल्भानामन्तर्निविशति शृणोति प्रियकथां
स्वयं तत्तच्चेष्टाशतमभिनयैर्व्यञ्जयति च ।