This page has not been fully proofread.

वयःसंधिवर्णनम्
 
3271
 
अनाघ्रातं पुष्पं किसलयमलूनं कररुहै-
रनाविद्धं रत्नं मधु नवमनास्वादितरसम् ।
अखण्डं पुण्यानां फलमपि च तद्रूपमनघं
 
न जाने भोक्तारं कामह समुपस्थास्यति विधिः ॥ २ ॥
 
कालिदासस्य ।
 
3272
 
अयमङ्कुरभाव एव ताव-
त्कुत्रयोः कर्षति लोकलोचनानि ।
 
इतरेतरपीडनामवस्थां
 
गतयोः श्रीरनयोः कथं भवित्री ॥ ३ ॥
 
3273
 
दृश्यं दृशां सहस्रैर्मनसामयुतैर्विभावनीयं च ।
सुकृतशतकोटिभोग्यं किमपि वयः सुभ्रुवः स्वदते ॥४॥
 
3274
 
भ्रुवोः काचिल्लीलापरिणतिरपूर्वा नयनयो:
स्तनाभोगो व्यक्तस्तरुणिमसमारम्भसमये ।
इदानीं बालायाः किममृतमयः किं विषमयः
किमानन्दः साक्षाद्धूनितमधुरः पञ्चमरवः ॥ ५॥
 
केषामध्येते ।
 
3275
 
परिहरति वयो यथा यथास्याः
 
स्फुरदुरुकन्दलशालि बालभावम् ।
 
द्रढयति धनुषस्तथा तथा ज्यां
 
स्पृशति शरानपि सज्जयन्मनोभूः ॥ ६ ॥
 
४७१
 
3276
 
समं विलासिकरितः स्तनाभ्यां
त्रपा विलासेन सहावतीर्णा ।