This page has not been fully proofread.

४७०
 
शार्ङ्गधरपद्धतिः
 
3266
 
लावण्यामृतदीर्घिका कुलगृहं सौन्दर्य सौभाग्ययो-
त्रैलोक्याकररत्नकन्दलिरियं जीव्यात्सहस्रं समाः ।
रूपालोकन कौतुक्रेन बहुना शिल्पश्रमेणादरा-
न्मन्ये यां विधिना विधाय विहितं सृटेर्ध्वजारोपणम् ॥ ३ ॥
 
326%
 
एकान्तसुन्दरविधानजडः क वेधाः
 
सर्वाङ्गकान्तिचतुरं क च रूपमस्याः ।
मन्ये महेश्वरभयान्मकरध्वजेन
प्राणार्थिना युवतिरूपमिदं गृहीतम् ॥ ४ ॥
 
केषामध्येते ।
 
3268
 
अस्याः सर्गविधौ प्रजापतिरभूच्चन्द्रो नु कान्तिप्रदः
शृङ्गारैकरसः स्वयं नु मदनो मासो नु पुष्पाकरः ।
वेदाभ्यासजडः कथं नु विषयव्यावृत्त कौतूहलो
निर्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणो मुनिः ॥ ५॥
 
कालिदासस्य ।
 
3269
 
किं कौमुदी: शशिकला: सकला विचूर्ण्य
संयोज्य वामृतरसेन पुनः प्रयत्नात् ।
कामस्य घोरहर हुंकृतिदग्धमूर्ते:
संजीवनौषधिरियं विहिता विधात्रा ॥ ६॥
कस्यापि ।
 
अथ वय: संधिवर्णनम् ॥ ९७ ॥
 
3270
 
यथा यथा विशत्यस्या हृदये हृदयेश्वरः ।
तथा तथा बहिर्यातौ मन्ये संकोचतः कुची ॥ १ ॥
 
कस्यापि ।