शार्ङ्गधरपद्धतिः /484
This page has not been fully proofread.
बालावर्णनम्
अथधूपवर्तिः ।
3260
नखगुरुसिल्हकवालककुन्दुरुशैलेयचन्दनं श्यामा ।
क्रमवृद्धभागरचिता वार्तैः क्षितिनाथकान्तेयम् ॥ ११७ ॥
पद्मश्रियः ।
3261
मार्जारी हिमवालुका पिशुनकं गोशीर्षकं शिल्हनं
वह्नः प्रीतिकरं तथाम्नुपिशिता स्यात्कौशिकं यौगिकम् ।
कल्कं भागविवर्धकं गुडसितासमूच्छितं सर्पिषा
युक्तं मन्मथवर्तिरित्यभिहिता स्याद्भोगिनां सर्वदा ॥११८ ॥
श्रीगोविन्दराजदेवानाम् ।
अथ दीपवर्तिः ।
3262
सुरदारुमलय मुस्तकलाक्षागुरुशीलचूर्णकर्पूरम् ।
नृपवासगेहयोग्या मनोहरा दीपवर्तिरियम् ॥ ११९ ॥
3263
४६९
गन्धरसागिरिकण्डुरुगुग्गुलुसर्जर सपूतिकर्पूरम् ।
श्रीवाससिल्हचन्दन मित्यपरा दीपवर्तिरियम् ॥ १२० ॥
एतौ पद्मश्रियः ।
अथ बालावर्णनम् ॥ ९६ ॥
3264
अभ्यासः कर्मणां सम्यगुत्पादयति कौशलम् ।
विधिना तावदभ्यस्तं यावत्सृष्टा मृगेक्षणा ॥ १ ॥
3265
दग्धो विधिविधत्ते न सर्वगुणसुन्दरं जनं कमपि ।
इत्यपवादभयादिव मुग्धाक्षी निर्मिता विधिना ॥ २ ॥