This page has not been fully proofread.

४६८
 
शार्ङ्गधरपद्धतिः
 
अथाङ्गवासः ।
 
3253
 
चूर्ण कुष्ठमुरानागकेसराणां घृतान्वितम् ।
मधु पीतं करोत्यङ्गसौरभं सततं नृणाम् ॥ ११० ॥
 
3254
 
प्रातः कुष्ठरजचूर्ण लिहन्मधुघृतान्वितम् ।
 
काठिन्यं सौरभं तस्य देहे स्याच्चिरजीवितम् ॥ १११ ॥
 
श्रीकण्ठशंभोः ।
 
अथ धूपाः ।
 
3255
 
दलं मलयजं मांसी सितागुरु जलं मधु ।
समांशैर्मेलितैर्धूपो धत्ते कुङ्कुमसौरभम् ॥ ११२ ॥
 
3256
 
चन्दनागरुकुष्ठानि शिवासर्जर सौ सिता ।
मलयानिलनामायं धूपोमीभिः सुरप्रियः ॥ ११३ ॥
योगरत्नावल्या एतौ ।
 
3257
 
सूरणद्विपदानाभ्यां शिलया गौरसर्षपैः ।
 
कुङ्कुमागुरुरम्भाभिश्चन्द्रचन्दनकौशिकैः ॥ ११४ ॥
 
3258
 
दशाङ्गोयं महाधूपो नाम्ना संमोहनाभिधः ।
त्रैलोक्यं मोहयत्येव कामबाणसमः स्मृतः ॥ ११५ ॥
शार्ङ्गधरस्य ।
 
3259
 
शशिनखगिरि मदमांसीजतुभागो मलयलोहयोर्भागौ ।
मिलितैर्गुडपरिमृदितैर्वस्त्रगृहादीनि धूपयेच्चतुरः ॥ ११६ ॥
 
गन्धदीपिकायाः ।