This page has not been fully proofread.

संकेतादिविवृतिः
 
3245
 
जरायुजं मृतं गर्भमपतन्तीं जरामपि ।
 
योषितां पातयत्येव पादस्थोत्तरणीशिफा ॥ १०२ ॥
 
अथ बालरक्षा ।
 
3246
 
मयूरचूलिकामूलं ग्रहणादौ समुद्धृतम् ।
वालकस्य गले बद्धं सर्वदोषनिवारणम् ॥ १०३ ॥
 
3247
 
एका वा दुग्धिका तुम्बी शङ्खपुष्पी जटा धृता ।
कण्ठदन्तोद्भवा भूतवेदनाहरणक्षमा ॥ १०४ ॥
अथ यौवनरक्षा ।
 
3248
 
मुण्डीचूर्णकषायेण युतं तैलं विपाचितम् ।
पतितं यौवनं न स्यात्पानादुत्तिष्ठति ध्रुवम् ॥ १०५॥
 
3249
 
माकन्दमूल संयुक्त मधुकर्पूरपूरिता ।
 
गतेपि यौवने स्त्रीणां योनिर्गाढातिजायते ॥ १०६ ॥
 
एते योगरत्वावल्याः ।
 
४६७
 
अथ मुखवासजलवासौ ।
 
3250
 
जातीफलं च कस्तूरी कर्पूरं चूतवारिसंपृक्तम् ।
धूपितमगुरुकसिल्हं मधुगुडधूपैच मुखवासः ॥ १०७ ॥
 
3251
 
सूक्ष्मैलाकस्तूरीकुष्ठत्वक्पत्रचन्दनैः सुतनु ।
 
मलयजसहितं नूनं रचय महीपाल जलवासम् ॥ १०८ ॥
 
3252
 
त्वक्पत्राभ्यां जातीपत्रैलाभ्यां च चम्पको भवति ।
खरिचाभ्यां वीनः कुष्ठतिलाभ्यां च पाटलावासः ॥१०९ ॥