This page has not been fully proofread.

शार्ङ्गधरपद्धतिः
 
3237
 
कर्पासबीजमज्जानां चूर्ण तैलेन पाचयेत् ।
तेन संजायते पुष्पं युवतीनां चिराद्गतम् ॥ १४ ॥
 
3238
 
तुम्बीवीजयवक्षारौ दन्तिविल्वं कणा गुडः ।
पञ्चबाणवलं वर्तिर्वचीक्षीरेण निर्मिता ।
योनिमध्यस्थिता पुष्पं जनयत्येव योषिताम् ॥ ९५ ॥
अथ गर्भजननम् ।
 
3239
 
नागकेसरपुष्पाणां चूर्णे गोसर्पिषा सह ।
 
पीते खी लभते गर्भमृतौ दुग्धान्नभोजिनी ॥ ९६ ॥
 
3240
 
लक्ष्मणा शिखिमूला वा दुग्धपीता दिनत्रयम् ।
ऋतौ जाते स्त्रियो गर्भ ग्राहयेन्नरसंगमे ॥ ९७ ॥
 
अथ गर्भपातरक्षा ।
 
3241
 
लज्जालुर्धातकीपुष्पमुत्पलं मधु लोभ्रकम् ।
जलस्थया स्त्रिया पीतं गर्भपातं निवारयेत् ॥ ९८ ॥
 
3242
 
गर्भिणीगर्भतो रक्तं स्तम्भयेन्निपतहुतम् ।
पारावतमलं पीतं त्र्यहं तन्दुलवारिणा ॥ ९९ ॥
अथ सुखप्रसूतिः ।
 
3243
 
कृत्वा च सप्तखण्डं गुञ्जामूलं निबध्य कटिदेशे ।
सूत्रैः सप्तभिरचिरात्मुख भामिनी भजते ॥ १०० ॥
 
3244
 
हिङ्गु सैन्धवसंयुक्ततप्तकाञ्चिकपानतः ।
 
प्रसृते स्त्री कटौ बद्धे मूले वा मातुलुङ्गजे ॥ १०१ ॥