This page has not been fully proofread.

संकेतादिविवृतिः
 
3228
 
भल्लातकबृहतीफलदाडिमफलकल्कसाधितं कुरुते ।
लिङ्ग मर्दनविधिना कटुतैलं वाजिलिङ्गाभम् । ८५ ॥
 
3229
 
पुटदग्धपद्मिनीदलभल्लातककृष्णलवणानाम् ।
 
भूयः परिणतवृहतीफलरससंपिष्टया मुदितम् ॥ ८६ ॥
 
3230
 
महिषीमलमिलितमये लिङ्गं पश्चाच्च तैर्भवति ।
मुसलमिव मदनविह्वलयुवतीजनदर्पनिर्दलनम् ॥ ८७ ॥
 
( युग्मम् )
 
3231
 
कनकरसमसृणवार्तित हयगन्धा मूल मिश्रपर्युषितम् ।
 
माहिषमिह नवनीतं गतबीजे कनकफलमध्ये ॥ ८८॥
 
४६५
 
3232
 
गोमयगा डोहार्तितपूर्व पश्चादनेकशो लिप्तम् ।
 
भवति हयलिङ्गसदृशं लिङ्गं कठिनाङ्गनादयितम् ॥८९॥
 
(युग्मम्)
 
3233
 
करिकृष्णाश्वगन्धा व नवनीतं च माहिषम् ।
एतेषां मर्दनाल्लिङ्गवृद्धिः संजायते परा ॥ ९० ॥
 
3234
 
कर्पूरमण्डदुग्धलेपेन जायते ।
 
शेफसो महती वृद्धिः कटिनस्त्रीमुखावहा ॥ ९१ ॥
 
3235
 
शर्करासैन्धवं सर्पेिक्षीरविपाचितम् ।
 
युक्त्या तु मर्दयेल्लिङ्गं भवेत्कारिकरोपमम् ॥ १२ ॥
 
एते कोकस्य ।
 
अथ कुसुमजननम् ।
 
3236
 
पीते च तिलकषाये त्रिकटुद्दिजयष्टिमूलसंयुक्त ।
अपहरति रक्तगुल्मं कुसुमनिरोधं च तरुणीनाम् ॥ ९३ ॥