This page has not been fully proofread.

४६४
 
शार्ङ्गधरपद्धतिः
 
अथ बीजस्तम्भः ।
 
3219
 
भृङ्गरजः कन्यायां विष्णुक्रान्तासजीरके मलिते ।
मुखगतगुटिकाविधिना बीजस्तम्भं रते कुरुते ॥ ७६ ॥
 
3220
 
वानरं चपलं ध्यायेहृक्षशाखावलम्बिनम् ।
 
सुरते तेन बीजस्य स्तम्भो भवति निश्चितम् ॥ ७७ ॥
 
3221
 
कपिकच्छृमूलेन च निजचरणविलेपनाद्भवति ।
बीजस्तम्भः पुंसो बहुशो दृष्टः प्रयोगोयम् ॥ ७८ ॥

 
3222
 
सितशरपुडामूलं पारदरससहित मानने निहितम् ।
एक करञ्जकबीजान्तरगं बीजं विधारयति ॥ ७९ ॥
 
3223
 
स्नुह्याजदुग्धपिष्टं लज्जालोर्मूलमालेपनतः ।
ध्वजलेपादजमूत्रात्पिष्टं वा वारुणीमूलम् ॥ ८० ॥
 
3224
 
माहिषघृतसहदेवीतिलमधुसितकमल
के सरेस्तुल्यैः ।
गृहचटकेन च लेपितनाभिस्तब्धेन्द्रियो रमते ॥ ८१ ॥
 
3225
 
कपिकच्छूमूलेन च मदावेहलछागमूत्रपिटेन ।
मिलनं स्तब्धीकरणं मूलेन दुरालभायाश्च ॥ ८२ ॥
अथ लिङ्गवृद्धिः
 
3226
 
मधुतगर गौर सर्षपबृहतीखरमञ्जरीकणा: सतिलाः ।
यत्रकुष्ठमरिचसैन्धवह यगन्धामाषसंयुक्ताः ॥८३ ॥
 
3227
 
स्तन युगलकर्णपालीवेजभुजशिखरोपवयमेताः ।
ध्रुवमुइर्तनविधिना सतताभ्यासेन कुर्वन्ति ॥ ८४ ॥