This page has not been fully proofread.

संकेतादिविवृतिः
 
3212
 
रक्तकपिलिङ्गमुडुपतिकाञ्चनमधुसूतसहितं वा ।
हयलालामञ्जिष्ठा सितसर्वपजातिकुसुमं वा ॥ ६९ ॥
 
3213
 
मधुसैन्धवकलरवमलमिलितं वाजिलिङ्गलेपेन ।
द्रावयति कामिनीनां रतिसमये काममन्दिरं नियतम् ॥७०॥
 
अथ वाजीकरणम् ।
 
3214
 
गोक्षुरकेक्षुरकं शतमूली-
वानार नागबलातिबलानाम् ।
चूर्णमिदं पयसा निशि सेव्यं
यस्य गृहे प्रमदाशतमस्ति ॥ ७१ ॥
 
3215
 
गोक्षुरविदारिकाभवचूर्ण वा शर्करासहितम् ।
स्वरसेन भावितं वा धात्रीचूर्ण सिताज्यमधुलीढम् ॥
लीडनुपीय दुग्धं न तृप्यति स्त्रीशतस्यापि ॥ ७२ ॥
 
3216
 
पिप्पलीमाषशालीनां यवगोधूमयोस्तथा ।
चूर्णभागान्समीकृत्य घृते पूपलिकां पचेत् ॥ ७३ ॥
 
४६३
 
3217
 
तां भक्षयित्वा पीत्वा च शर्करामधुरं पयः ।
नरञ्चटकवद्गच्छेन्मैथुने तरुणीदेश ॥ ७४ ॥
 
3218
 
घृतमधुसहदेवान्वितसरोजकिंजल्कलिप्मनाभेर्वा ।
रममाणस्य न तृप्यति मनः शतस्यापि रमणीनाम् ॥ ७५ ॥
 
एते योगरत्नावल्याः ।