This page has not been fully proofread.

४६२
 
शार्ङ्गधरपद्धतिः
 
3204
 
निजबीजेन रतान्ते वामदृशो झटिति वामपादं यः ।
अथवा लिम्पति हृदयं स एव तस्याः परो दयितः ॥६१॥
 
3205
 
वचा सौवर्चलं कुष्ठं रजन्यौ मरिचानि च ।
एषां लेपप्रभावेण वशीकरणमुत्तमम् ॥ ६२ ॥
 
3206
 
कर्पूरं चन्दन कुष्टं तुलसी सर्जसंभवम् ।
 
मुस्तं शिलारसं चैव धत्तूरमगुरुस्तथा ॥ ६३ ॥
 
3207
 
शेफाली शतपुष्पा च सर्षपास्तगरं गुडः ।
तथा रुद्रजटा सर्वमैतदेकत्र कारयेत् ॥ ६४ ॥
 
3208
 
अनेन योगराजेन धूपिताम्बरभूषणः ।
धूपिताङ्गस्त्रिभुवनं मनुजः कुरुते वशम् ॥ ६५ ॥
अथ द्रावणम् ।
 
3209
 
यदि वा मधु उचिञ्जासहितं कठिनाङ्गनावराङ्गेषु ।
क्षेपात्त डूजलेपाद्रेतःस्रोतः प्रवर्तयाते ॥ ६६ ॥
 
3210
 
कर्पूरामश्रेण च कण्टकारी-
बीजोद्भवेनैव रसेन लिप्तम् ।
 
-
 
लिङ्गं रते द्रावकरं वधूनां
संजायतेत्यन्तसुखावहं च ॥ ६७ ॥
 
3211
 
चूर्णितैष्टङ्कणोपेतैर्महाराष्ट्रीफलच्छदैः ।
मधुना लिङ्गलेपेन द्रावो भवति योषिताम् ॥ ६८ ॥